Towards Excellence

(ISSN No. 0974-035X)
(An indexed refereed & peer-reviewed journal of higher education)
UGC-MALAVIYA MISSION TEACHER TRAINING CENTRE GUJARAT UNIVERSITY

पुराणानां क्रमः सृष्टिविद्याया: निरुपणं च

Authors:

Nitin Acharya

Abstract:

 पुराणविद्या अस्माकं कृते बहु महत्त्वं वहति । विज्ञानस्य भूता: भविष्यामाणा: आविष्कारा: उल्लिखिता: सन्ति, सर्वेऽपि अत्र पुराणेषु प्रदर्शितानि सन्ति । तदत्र आश्चर्यस्य विषय: अस्ति । अत्र सर्वप्रथमं तु पुराणानि कानि ? तेषां संख्या का ? कति वा ? तस्योल्लेख: अस्ति अत्र । अष्टादश पुराणानि सन्ति अत्र । तत्र मकारेण द्वे, भकारेण द्वे, ब्रवर्णेन त्रीणि, वकारेण चत्वारि, अनापलिंगकुस्का इति वर्णै: अन्यानि सप्त पुराणानि सन्ति । तत्र क: क्रम: आश्रयणीय: ? तदत्र लिखितमस्ति । किं पुराणं प्रथमं किं च द्वितीयं तदत्र चर्चितमस्ति । सर्वाणि पुराणानि युगपत् न संभूतानि ? पुराणानि अष्टादश सन्ति । किन्तु एकमपि स्वतन्त्रं नास्ति, एकस्य पुराणस्य एव अष्टादश प्रकरणानि सन्ति तथैव एतानि पुराणानि अध्यायाः इव गुम्फितानि सन्ति । यथा एकस्मिन् ग्रन्थे अध्यायाः भवन्ति तथैव एतानि अष्टादश पुराणानि सन्ति । अतः एवं अस्य क्रमः निश्चितः वर्तते । एकस्य एव कवेः मिन्नभिन्नकृतयः भवन्ति तत्र कोऽपि निश्चितः क्रमः न भवति । किन्तु पुराणेषु तथा नास्ति । मूलतत्त्वस्य चर्चा अपि अत्र कृता अस्ति । किं मूलतत्त्वं ? प्रकृति: ? आग्नेयप्राण: ? अथवा सौरप्राण: ? तस्य चर्चा अत्र कृता अस्ति ।   

Keywords:

पुराणम्, पृथ्वी, द्यु- सौरमण्डलम्, आपोमयं, नारद:, वेद:, धर्मशास्त्रम्, वंशानुचरितम् , ब्रह्मविष्णुमहेश्वरा:

Vol & Issue:

VOL.16, ISSUE No.2, June 2024