Towards Excellence

(ISSN No. 0974-035X)
(An indexed refereed & peer-reviewed journal of higher education)
UGC-MALAVIYA MISSION TEACHER TRAINING CENTRE GUJARAT UNIVERSITY

प्रदीपटीकामाधृत्य भारवेः पद्यविमर्शः

Authors:

Yogendrakumar Trivedi

Abstract:

संस्कृतसाहित्यक्षेत्रे अङ्गुलिगणनेव कालिदासप्रभृतिषु महाकविषु अन्यतमः भारविः । भारवेरर्थगौरवमिति ख्यातिः सुतरां सामञ्जस्यं निर्वहति । अस्य  महाकवेः अर्थगाम्भीर्यपूर्णस्य काव्यस्य प्राचीनैः ३६ व्याख्यातृभिः टीकाः विरचयामास इति उमेशप्रसादरस्तोगीवर्यः स्वशोधप्रबन्धे दर्शयति ।

एताषु टीकासु मल्लीनाथस्य ʻघण्टापथʼ इति टीका नितरामुत्तमा । अत्र किरातपद्यान् आधृत्य टीकायाम् अर्थसङ्गतौ कुत्रचित् शब्दशास्त्रदिशा असाधुत्वम्, कुत्रचित्  शब्दस्य कोशासङ्गतिः तथा च समाप्त-पुनरातत्त्वदोषोद्भवनं प्रतिपादितम् । एतादृशात् विषयान् आधृत्य १८ शताब्द्यां धर्मविजयगणिरचितप्रदीपटीकाऽऽधारेण विस्तरेण विमर्शो विहितः । शब्दविदां साहित्यरसिकानाञ्च कृते नूनमयं विमर्शलेखः ज्ञानवर्धक आनन्दप्रश्च भविष्यतीति मन्यामहे ।

Keywords:

किरातार्जुनीयम्, घण्टापथटीका, प्रदीपटीका, विमर्श:

Vol & Issue:

VOL.12, ISSUE No.2, March 2020